तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम्।
तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम्।।1.29.12।।

शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो।
त्वमनादिरनिर्देश्यस्त्वामहं शरणं गत:।।1.29.13।।

तमुवाच हरि: प्रीत: कश्यपं धूतकल्मषम्।
वरं वरय भद्रं ते वरार्होऽसि मतो मम ।।1.29.14।।

No comments:
Post a Comment